dvitiyo padeshahद्वितीयोपदेशःdvitīyo-padeśaḥchapter two combined|Devanagari|phonetic|simplified|translation|explanation अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥१॥ चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥२॥ यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते । मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत् ॥३॥ मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्याद् उन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥४॥ शुद्धम् एति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥५॥ प्राणायामं ततः कुर्यान् नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥६॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥७॥ प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः । विधिवत् कुम्भकं कृत्वा पुनश् चन्द्रेण रेचयेत् ॥८॥ येन त्यजेत् तेन पीत्वा धारयेद् अतिरोधतः । रेचयेच् च ततोऽन्येन शनैर् एव न वेगतः ॥९॥ प्राणं चेद् इडया पिबेन् नियमितं भूयोऽन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया । सूर्यचन्द्रमसोर् अनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयाद् ऊर्ध्वतः ॥१०॥ प्रातर् मध्यन्दिने सायम् अर्धरात्रे च कुम्भकान् । शनैर् अशीतिपर्यन्तं चतुर् वारं समभ्यसेत् ॥११॥ कनीयसि भवेद् स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानम् आप्नोति ततो वायुं निबन्धयेत् ॥१२॥ जलेन श्रमजातेन गात्रमर्दनम् आचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥१३॥ अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः ॥१४॥ यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः । तथैव सेवितो वायुर् अन्यथा हन्ति साधकम् ॥१५॥ प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥१६॥ हिक्का श्वासश् च कासश् च शिरःकर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥१७॥ युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयाद् एवं सिद्धिम् अवाप्नुयात् ॥१८॥ यदा तु नाडीशुद्धिः स्यात् तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस् तदा जायते निश्चितम् ॥१९॥ यथेष्टं धारणं वायोर् अनलस्य प्रदीपनम् । नादाभिव्यक्तिर् आरोग्यं जायते नाडिशोधनात् ॥२०॥ मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस् तु नाचरेत् तानि दोषाणां समभावतः ॥२१॥ धौतिर् बस्तिस् तथा नेतिस् त्राटकं नौलिकं तथा । कपालभातिश् चैतानि षट्कर्माणि प्रचक्षते ॥२२॥ कर्म षट्कम् इदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥२३॥ तत्र धौतिः चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर् ग्रसेत् । पुनः प्रत्याहरेच् चैतद् उदितं धौतिकर्म तत् ॥२४॥ कासश्वासप्लीहकुष्ठं कफरोगाश् च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्य् एव न संशयः ॥२५॥ अथ बस्तिः नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात् क्षालनं बस्तिकर्म तत् ॥२६॥ गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥२७॥ धात्विन्द्रियान्तःकरणप्रसादं दधाच् च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्याद् अभ्यस्यमानं जलबस्तिकर्म ॥२८॥ अथ नेतिः सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् । मुखान् निर्गमयेच् चैषा नेतिः सिद्धैर् निगद्यते ॥२९॥ कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिर् आशु निहन्ति च ॥३०॥ अथ त्राटकम् निरीक्षेन् निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तम् आचार्यैस् त्राटकं स्मृतम् ॥३१॥ मोचनं नेत्ररोगाणां तन्द्राद्रीणां कपाटकम् । यत्नतस् त्राटकं गोप्यं यथा हाटकपेटकम् ॥३२॥ अथ नौलिः अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेद् एषा नौलिः सिद्धैः प्रशस्यते ॥३३॥ मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रिया मौलिर् इयं च नौलिः ॥३४॥ अथ कपालभातिः भस्त्रावल् लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर् विख्याता कफदोषविशोषणी ॥३५॥ षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्याद् अनायासेन सिद्ध्यति ॥३६॥ प्राणायामैर् एव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिद् अन्यत् कर्म न संमतम् ॥३७॥ अथ गजकरणी उदरगतपदार्थम् उद्वमन्ति पवनम् अपानम् उदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रा गजकरणीति निगद्यते हठज्ञैः ॥३८॥ ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्न् अन्तकभ्यात् तस्मात् पवनम् अभ्यसेत् ॥३९॥ यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् । यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् कालभयं कुतः ॥४०॥ विधिवत् प्राणसंयामैर् नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद् विशति मारुतः ॥४१॥ अथ मनोन्मनी मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥४२॥ तत्सिद्धये विधानज्ञाश् चित्रान् कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद् विचित्रां सिद्धिम् आप्नुयात् ॥४३॥ अथ कुम्भकभेदाः सूर्यभेदनम् उज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्य् अष्टकुम्भकाः ॥४४॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस् तूड्डियानकः ॥४५॥ अधस्तात् कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात् प्राणो ब्रह्मनाडिगः ॥४६॥ आपानम् ऊर्ध्वम् उत्थाप्य प्राणं कण्ठाद् अधो नयेत् । योगी जराविमुक्तः सन् षोडशाब्दवया भवेत् ॥४७॥ अथ सूर्यभेदनम् आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥४८॥ आकेशाद् आनखाग्राच् च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत् पवनं शनैः ॥४९॥ कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनर् इदं कार्यं सूर्यभेदनम् उत्तमम् ॥५०॥ अथ उज्जायी मुखं संयम्य नाडीभ्याम् आकृष्य पवनं शनैः । यथा लगति कण्ठात् तु हृदयावधि सस्वनम् ॥५१॥ पूर्ववत् कुम्भयेत् प्राणं रेचयेद् इडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥५२॥ नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यम् उज्जाय्य् आख्यं तु कुम्भकम् ॥५३॥ अथ सीत्कारी सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवम् अभ्यासयोगेन कामदेवो द्वितीयकः ॥५४॥ योगिनी चक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥५५॥ भवेत् सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥५६॥ अथ शीतली जिह्वया वायुम् आकृष्य पूर्ववत् कुम्भसाधनम् । शनकैर् घ्राणरन्ध्राभ्यां रेचयेत् पवनं सुधीः ॥५७॥ गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥५८॥ अथ भस्त्रिका ऊर्वोर् उपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेद् एतत् सर्वपापप्रणाशनम् ॥५९॥ सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥६०॥ यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच् चापि हृत्पद्मावधि मारुतम् ॥६१॥ पुनर् विरेचयेत् तद्वत् पूरयेच् च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥६२॥ तथैव स्वशरीरस्थं चालयेत् पवनं धिया । यदा श्रमो भवेद् देहे तदा सूर्येण पूरयेत् ॥६३॥ यथोदरं भवेत् पूर्णम् अनिलेन तथा लघु । धारयेन् नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥६४॥ विधिवत् कुम्भकं कृत्वा रेचयेद् इडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥६५॥ कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥६६॥ सम्यग् गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्व् इदम् ॥६७॥ अथ भ्रामरी वेगाद् घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राण्?अम् एवम् अभ्यासयोगाच् चित्ते जाता काचिद् आनन्दलीला ॥६८॥ अथ मूर्च्छा पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन् मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥६९॥ अथ प्लाविनी अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्य् अगाधेऽपि सुखात् प्लवते पद्मपत्रवत् ॥७०॥ प्राणायामस् त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश् चेति कुम्भको द्विविधो मतः ॥७१॥ यावत् केवलसिद्धिः स्यात् सहितं तावद् अभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद् वायुधारणम् ॥७२॥ प्राणायामोऽयम् इत्य् उक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥७३॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥७४॥ राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो भवेत् । अनर्गला सुषुम्णा च हठसिद्धिश् च जायते ॥७५॥ हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्मम् आनिष्पत्तेः समभ्यसेत् ॥७६॥ कुम्भकप्राणरोधान्ते कुर्याच् चित्तं निराश्रयम् । एवम् अभ्यासयोगेन राजयोगपदं व्रजेत् ॥७७॥ वपुः कृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनं नाडीविशुद्धिर् हठसिद्धिलक्षणम् ॥७८॥